Yogi Ramsuratkumar’s voice – Shloka #13 – Klaibyam ma sma gamah

Here are some shlokas that Yogi Ramsuratkumar, Godchild, Tiruvannamalai had recited from Bhagavad Gita Chapter 2. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

पदच्छेदः

कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥

अन्वयः

अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

आकाङ्क्षा

  • अर्जुन !
  • कुतः समुपस्थितम् (अस्ति)
    • किं समुपस्थितम् अस्ति ? इदम्
      • इदं किं समुपस्थितम् अस्ति ? कश्मलम्
        • कीदृशं कश्मलम् ? अनार्यजुष्टम्
        • पुनः कीदृशं कश्मलम् ? अस्वर्ग्यम्
        • पुनः कीदृशं कश्मलम् ? अकीर्तिकरम्
      • कं प्रति समुपस्थितम् अस्ति ? त्वा
      • कुत्र समुपस्थितम् अस्ति ? विषमे

kutastvā kaśmalamidaṃ viṣame samupasthitam ।
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥

  • akīrtikaram = causes dishonor
  • Arjuna = O Arjuna

In this critical time, from where did you get this filth?  O Arjuna! Noble men don’t do this. It will prevent you from reaching the heavens. It will result in dishonour.

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ भगवद्गीता २.३ ॥

पदच्छेदः

क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥

अन्वयः

पार्थ ! क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।

आकाङ्क्षा

  • हे पार्थ |
  • मा स्म गमः [ मा प्राप्नुहि ]
    • किं मा स्म गमः ?  क्लैब्यम् [ नपुंसकत्वम् ]
  •  न उपपद्यते [ न युज्यते ]
    • किं  न उपपद्यते ? एतत् [ अत्र क्लैब्यम् ]
    • कस्मिन् न उपपद्यते ? त्वयि
  • हे परन्तप |
  • उत्तिष्ठ
    • किं कृत्वा ? त्यक्त्वा
      • किं त्यक्त्वा ? हृदयदौर्बल्यम् [ चित्तवैक्लव्यम् ]
        • कीदृशं हृदयदौर्बल्यम्  ?  क्षुद्रम् [ तुच्छम् ]

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate ।
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ॥ 2.3 ॥

  • klaibyaṃ = Impotency
  • mā = don’t
  • sma gamaḥ = obtain or yield to
  • pārtha = O Arjuna, the son of Prthu
  • na = Not
  • etat = this one
  • tvayi = in you
  • upapadyate = suits
  • kṣudraṃ = insignificant
  • hṛdayadaurbalyaṃ = weakness of the heart
  • tyaktva = having given up
  • uttiṣṭha = Rise up
  • parantapa = O Arjuna, one who causes trouble to his enemies

Don’t loss your manliness. O Partha! This does not befit you. Giving you this petty weakness of the heart, raise up! O tormentor of the enemies!

अर्जुन उवाच
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

पदच्छेदः

कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन । इषुभिः, प्रतियोत्स्यामि, पूजार्हौ, अरिसूदन ॥

अन्वयः

मधुसूदन ! अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मं द्रोणं च प्रतियोत्स्यामि ? अरिसूदन !

पदपरिचय:

  • मधुसूदन !
  • कथम् प्रतियोत्स्यामि
    • कुत्र प्रतियोत्स्यामि ? सङ्ख्ये
    • कैः प्रतियोत्स्यामि ? इषुभिः
      • कौ प्रतियोत्स्यामि ? भीष्मं द्रोणं च
        • कीदृशौ तौ भीष्मं द्रोणं च ? पूजार्हौ
      • कः प्रतियोत्स्यामि ? अहम्
    • अरिसूदन |

arjuna uvāca
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana ।
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 4 ॥

  • arjuna = Arjuna
  • uvāca = said
    • madhusūdana = O Madhusudana
    • kathaṃ = How
    • ahaṃ = I
    • pratiyotsyāmi = I will attack
    • iṣubhiḥ = with the arrows
    • saṅkhye = in the battlefield
    • bhīṣmam = Bhishma
    • ca = and
    • droṇaṃ = Dhrona
    • pūjārhau = those two who are worship-worthy individuals
    • arisūdana = O Arisudana

Arjuna said:
O Madhusudana! How will I strike back, in this battlefield, with my arrows, Bheeshma and Dhrona, who ought to be worshipped by me? O Arisudana!

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

पदच्छेदः

गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, भैक्ष्यम्, अपि, इह, लोके । हत्वा, अर्थकामान्, तु , गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥

अन्वयः

महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् इह लोके श्रेयः (स्यात्) । गुरून् हत्वा इह एव रुधिरप्रदिग्धान् अर्थकामान् भोगान् (अहं) भुञ्जीय (वा) ?

पदपरिचय:

  • श्रेयः (स्यात्)
    • कुत्र श्रेयः (स्यात्) ? इह
      • इह कुत्र श्रेयः (स्यात्) ? लोके
    • किं श्रेयः (स्यात्) ? भैक्ष्यम्
    • किं कर्तुं श्रेयः (स्यात्) ? भोक्तुम्
    • किं कृत्वा श्रेयः (स्यात्) ? अहत्वा
      • कान् अहत्वा ? गुरून्
      • कीदृशान् गुरून् ? महानुभावान्
    • भुञ्जीय (वा)
      • कान् भुञ्जीय (वा) ? भोगान्
        • कीदृशान् भोगान् ? अर्थकामान्
        • पुनः कीदृशान् भोगान् ? रुधिरप्रदिग्धान्
      • कुत्र भुञ्जीय (वा) ? इह
      • किं कृत्वा भुञ्जीय (वा) ? हत्वा
        • कान् हत्वा ? गुरून् एव
      • कः भुञ्जीय (वा) ? (अहम्)

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān
5

  • ahatvā hi = without even killing
  • gurūn = teachers
  • mahānubhāvān = who are revered men
  • śreyah (syaat) = it is probably better
  • bhoktuṃ = to enjoy
  • bhaikṣyam api = beggary itself
  • iha loke = in this world
  • hatvā = having killed
  • gurūn = teachers
  • iha eva = here itself
  • bhuñjīya (vaa) = should I consume
  • bhogān = the enjoyments
  • arthakāmān tu = those that were wished for
  • rudhirapradigdhān = those that are stained with blood

It is probably far better in this world to live on alms rather than killing my great Gurus. On killing my Gurus here, should I consume the enjoyments that I had wished for, which are only stained with their blood?

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

पदच्छेदः

न, च, एतत्, विद्मः, कतरत्, नः, गरीयः, यत्, वा, जयेम, यदि, वा, नः, जयेयुः । यान्, एव, हत्वा, न, जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥

अन्वयः

यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः । (तस्मात्) यद् वा जयेम यदि वा नो जयेयुः (अनयोः) कतरत् नः गरीयः (इति) एतत् न विद्मः ।

पदपरिचय:

  • न विद्मः (आसम्)
    • के न विद्मः आसम् ? (वयम्)
    • किं न विद्मः आसम् ? गरीयः
      • कीदृशं गरीयः ? कतरत्
      • केषां गरीयः ? नः

na caitadvidmaḥ kataranno garīyo …

  • katarat = which one
  • nah = for us
  • garīyah = is better
  • etad ca = this also
  • na vidmaḥ = we are not the knowers

We do not know which is better for us…

 

Advertisements

(Audio) Shlokas in Yogi Ramsuratkumar’s Voice

Here is the audio of Yogi Ramsuratkumar, Godchild, Tiruvannamalai chanting some Sanskrit shlokas.

The shlokas in Sanskrit, padacchdeda, anvaya, and padaparichaya, along with the transliteration, word-by-word meaning, and shloka’s meaning in English are available at https://yogiramsuratkumarblog.wordpress.com/category/yogis-voice/

Shlokas recited by Yogi Ramsuratkumar, Godchild, Tiruvannamalai

वासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥

यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृण्हाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।

vāsāṃsi jīrṇāni yathā vihāya navāni gṛṇhāti naro’parāṇi
tathā śarīrāṇi vihāya jīrṇān-yanyāni saṃyāti navāni dehī

Just as a person throws away the old worn out clothes and takes on new clothes, the soul also discards the worn out bodies and takes on new bodies.

This shloka is from Bhagavad Gita (2.22)

Shlokas recited by Yogi Ramsuratkumar

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्

भारत ! यदा यदा धर्मस्य ग्लानिः, अधर्मस्य च अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि ।

yadā yadā hi dharmasya glānirbhavati bhārata
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham

Whenever there is decay of righteousness, O Bharata, and there is exaltation of unrighteousness, then I Myself come forth.

This shloka is from Bhagavad Gita (4.7)

Shlokas recited by Yogi Ramsuratkumar

परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge

For the protection of the good, for the destruction of evil-doers, for the sake of firmly establishing righteousness, I am born from in every age.

This shloka is from Bhagavad Gita (4.8)

Shlokas recited by Yogi Ramsuratkumar

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।

धनञ्जय । मत्त: परतरम् अन्यत् किञ्चित् न अस्ति । इदम् सर्वम् सूत्रे मणिगणा: इव मयि प्रोतम् ।

mattaḥ parataraṁ nān’yat-kin̄cidasti dhanañjaya |
mayi sarvamidaṁ prōtaṁ sūtrē maṇigaṇā iva ||

O Arjuna, there is nothing greater than Me. All that is here (in this universe) is strung in Me, like a row of gems strung on a thread.

This shloka is from Bhagavad Gita (7.7)

Shlokas recited by Yogi Ramsuratkumar

अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः

पार्थ । अनन्यचेताः य: सततं नित्यशः मां स्मरति तस्य नित्ययुक्तस्य योगिनः अहं सुलभः ।

anan’yacētāḥ satataṁ māṁ smarati nityaśaḥ |
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ ||

O son of Pṛthā! He who, with a mind undistracted by other things, thinks of Me constantly every day, to that Yogi, who is ever attuned, I am easy of attainment.

This shloka is from Bhagavad Gita (8.14)

Shlokas recited by Yogi Ramsuratkumar

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥

ये अनन्याः जनाः मां चिन्तयन्तः पर्युपासते नित्याभियुक्तानां तेषां योगक्षेमम् अहम् वहामि ।

ananyāścintayanto māṃ ye janāḥ paryupāsate
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham

For those who properly worship me, without thinking about anything else, for those people who are always connected with me, I carry what they lack and preserve what they have.

This shloka is from Bhagavad Gita (9.22)

Shlokas recited by Yogi Ramsuratkumar

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् |
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ||

द्विजातीनां देवः अग्निः अस्ति | मुनीनां हृदि दैवतम् अस्ति | प्रतिमा स्वल्पबुद्धीनां देवः अस्ति | समदर्शिनः देवः सर्वत्र अस्ति |

agnirdēvō dvijātīnāṁ munīnāṁ hr̥di daivatam |
pratimā svalpabud’dhīnāṁ sarvatra samadarśinaḥ ||

For the twice-born (Brahmins), Fire is God. For the ascetics, Godliness is in their hearts. For those with limited intelligence, God is in the statue. For those people who see everyone as equal, God is everywhere.

This shloka is from Chanakya Neeti (4.19) and Uttara Gita (3.7)

Shlokas recited by Yogi Ramsuratkumar

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः॥

(यथा) पुष्पे गन्धं, तिले तैलं, काष्ठे अग्निं, पयसि घृतम्, इक्षौ गुडं (च) (पश्यसि), तथा विवेकतः देहे आत्मानं पश्य |

puṣpē gandhaṁ tilē tailaṁ kāṣṭhē̕gniṁ payasi ghr̥tam |
ikṣau guḍaṁ tathā dēhē paśyātmānaṁ vivēkataḥ ||

The scent in the flower, the oil in the seed, the fire in the wood, the ghee in the milk, the jaggery in sugarcane, and similarly the soul in body are to be seen by discrimination only. This will not be explicitly evident.

This shloka is from Chankya Neti (7.21)

https://sanskritdocuments.org/doc_z_misc_major_works/chANakyanItikrama.html?lang=sa

Shlokas recited by Yogi Ramsuratkumar

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः |
उत्तमा मानमिच्छन्ति मानो हि परमं धनम् ||

अधमाः धनम् इच्छन्ति । मध्यमाः धनं मानं च इच्छन्ति । उत्तमाः मानम् इच्छन्ति । मानः हि परमं धनम् ।

adhamā dhanamicchanti dhanaṃ mānaṃ ca madhyamāḥ |
uttamā mānamicchanti māno hi paramaṃ dhanam ||

The inferior people wish for wealth. The middle level of people wish for material possession and respect. Great men want respect. Prestige is the supreme wealth.

This shloka is from Chankya Neti (8.01)

Shlokas recited by Yogi Ramsuratkumar

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम्
भोजने अमृतं वारि भोजनान्ते विषप्रदम् ।।

अजीर्णे वारि भेषजम् । जीर्णे वारि बलप्रदम् । भोजने वारि अमृतम् । भोजनान्ते वारि विषप्रदम् ।

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam
bhojane amṛtaṃ vāri bhojanānte viṣapradam ।।

Water is a medicine when one is experiencing indigestion. Water is nourishing when the food is digested. Water is nectar while consuming food. Water is poisonous when taken immediately after food.

This shloka is from Chankya Neti (8.07)

Shlokas recited by Yogi Ramsuratkumar

वर्णानाम् अर्थसङ्घानां रसानां छन्दसामपि |
मङ्गलानां च कर्तारौ वन्दे वाणीविनायकौ ||

वर्णानाम् अर्थ+सङ्घानां रसानां छन्दसाम् अपि मङ्गलानां च कर्तारौ वाणी+विनायकौ (अहं) वन्दे |

varṇānāṁ arthasaṅghānāṁ rasānāṁ chandasāmapi |
maṅgalānāṁ ca kartārau vandē vāṇīvināyakau ||

I salute the Goddess of speech, Vani (Saraswati) and Vinayaka, who are the creators of – all the sounds denoted by the letters; all the multitude of object denoted by those sounds; the poetic sentiments; as well as the meters; and all auspiciousness.

This shloka is from Tulasidas’ Raamcharitmaanas (Baalakaanda 1)

https://www.ramcharitmanas.iitk.ac.in/ramcharitmanas

Shlokas recited by Yogi Ramsuratkumar

नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् |
पाणौ महासायकचारूचापं
नमामि रामं रघुवंशनाथम् ||

अहं नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागं पाणौ महासायकचारूचापं रघुवंशनाथं रामं नमामि |

nīlāmbujaśyāmalakomalāṃgam sītāsamāropitavāmabhāgam |
pāṇau mahāsāyakacārūcāpaṃ namāmi rāmaṃ raghuvaṃśanātham ||

I salute that Sri Rama who is the Lord of Raghu dynasty; whose body parts are soft and have the colour of a blue lotus and black; on whose left side resides Sita; and who has a transcendental arrow and a beautiful bow in his hands.

This shloka is from Tulasidas’ Raamcharitmaanas (Ayodhya Kaanda 3)

https://http://www.ramcharitmanas.iitk.ac.in/ramcharitmanas

Yogi Ramsuratkumar’s voice – Shloka #12 – Neelaambuja

नीलाम्बुजश्यामलकोमलांगम् सीतासमारोपितवामभागम् |
पाणौ महासायकचारूचापं नमामि रामं रघुवंशनाथम् ||

deep-meditation-copyHere is a shloka that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite from Tulasidas’s Ramacharitamaanas. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/open?id=0B_LMgoFM5B7JWFBxTzcySkVvWGd3eGQ3NnNDQ0k4dnFHM0hF

पदच्छेद:

नील+अम्बुज+श्यामल+कोमल+अङ्गम् सीता+सम्+आरोपित+वाम+भागम् पाणौ महासायक+चारू+चापम् नमामि रामम् रघु+वंश+नाथम्

अन्वय:
अहं नीलाम्बुजश्यामलकोमलांगं सीतासमारोपितवामभागं पाणौ महासायकचारूचापं रघुवंशनाथं रामं नमामि |

आकाङ्क्षः

  • नमामि
    • कः नमति ? अहम्
    • कं नमामि ? रामम्
      • कीदृशं रामम् ? रघुवंशनाथम्
      • पुनः कीदृशं रामम् ? महासायकचारूचापम्
        • कुत्र महासायकचारूचापम् ? पाणौ
      • पुनः कीदृशं रामम् ? सीतासमारोपितवामभागं
      • पुनः कीदृशं रामम् ? नीलाम्बुजश्यामलकोमलांगं

nīlāmbujaśyāmalakomalāṃgam sītāsamāropitavāmabhāgam |

pāṇau mahāsāyakacārūcāpaṃ namāmi rāmaṃ raghuvaṃśanātham ||

nIlAmbujashyAmalakomalAMgam = He whose body parts (aMgam) are soft (komala) and have the colour of a blue (nIla) lotus (ambuja) and black (shyAmala)

sItAsamAropitavAmabhAgam = He on whose left (vAma) side (bhAga) resides (samAropita) Sita

pANau = in his hands

mahAsAyakachArUchApaM = who has powerful (mahA) arrows (sAyaka) and a beautiful (chArU) bow (chApa)

namAmi = I prostrate

rAmaM = Sri Rama

raghuvaMshanAtham = the Lord of Raghu dynasty

I prostrate that Sri Rama who is the Lord of Raghu dynasty; whose body parts are soft and have the colour of a blue lotus and black; on whose left side resides Sita; and who has a transcendental arrow and a beautiful bow in his hands.

Yogi Ramsuratkumar’s voice – Shloka #11 – Yadaa yadaa hi

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४.७ ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ४.८ ॥

Bhagavan4 - CopyHere are two shlokas that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite from Bhagavad Gita. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/open?id=0B_LMgoFM5B7JVFJKMHF1cnFCN19tOUhsN2h3M0FHdWZONnhF

पदच्छेद:
यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम्

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे

अन्वय:
भारत ! यदा यदा धर्मस्य ग्लानिः, अधर्मस्य च अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि ।

साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।

आकाङ्क्षः

  • सृजामि
    • कः सृजति ? अहम्
    • किं सृजामि ? आत्मानम्
    • कदा ? तदा
      • कदा तदा ? यदा यदा भवति तदा
        • किं भवति ? ग्लानिः
          • कस्य ग्लानिः ? धर्मस्य
        • पुनः किं भवति ? अभ्युत्थानम्
          • कस्य अभ्युत्थानम् ? अधर्मस्य
        • सम्भवामि
          • कः सम्भवति ? अहम्
          • कदा सम्भवामि ? युगे युगे (प्रतियुगे)
          • किमर्थं सम्भवामि ? परित्रणाय
            • केषां परित्रणाय ? साधूनाम्
          • पुनः किमर्थं सम्भवामि ? विनाशाय च
            • केषां विनाशाय ? दुष्कृताम्
          • पुनः किमर्थं सम्भवामि ? धर्मसंस्थापनार्थाय च

पदपरिचयः

सम्बोधनपदम् = भारत!

  • प्रथमवाक्यम्
  • “यदा” वाक्यांश:
    • क्रियापदम् = भवति
    • वाक्यांश:
      • कर्तृपदम् = ग्लानिः
      • सम्बन्ध-पदम् = धर्मस्य
    • कालवाचकपदम् = यदा
  • “यदा” वाक्यांश:
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृपदम् = अभ्युत्थानम्
      • सम्बन्ध-पदम् = अधर्मस्य
    • सम्योजकपदम् = च
    • कालवाचकपदम् = यदा
  • “तदा” वाक्यांश:
    • क्रियापदम् = सृजामि
    • कर्मपदम् = आत्मानम्
    • कर्तृपदम् = अहम्
    • कालवाचकपदम् = तदा

प्रथमवाक्यम् ४.

  • क्रियापदम् = सम्भवामि
  • वाक्यांश:
    • सम्प्रदानपदम् = परित्रणाय,
    • सम्बन्ध-पदम् = साधूनाम्
  • वाक्यांश:
    • सम्प्रदानपदम् = विनाशाय,
    • सम्बन्ध-पदम् = दुष्कृताम्
    • सम्योजकपदम् = च
  • सम्प्रदानपदम् = धर्मसंस्थापनार्थाय
  • सम्योजकपदम् = च
  • अधिकरणपदम् = युगे
  • कर्तृपदम् = (अहम्)

yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥ 4.7 ॥
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām ।
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ॥ 4.8 ॥

  • yadA yadA = whenever
  • hi = verily
  • dharmasya = Dharma’s, righteousness’s
  • glAnih = deterioration
  • bhavati = happens
  • bhArata = Hey, Bharata (Arjuna)
  • abhyutthAnam = exaltation
  • adharmasya = Adharma’s
  • tadA = at that time
  • AtmAnaM = myself
  • sRRijAmi = come forth, manifest
  • aham = I
  • paritrANAya = protection
  • sAdhUnAM = good men’s
  • vinAshAya = destruction
  • cha = and
  • duShkRRitAm = those who do bad deeds, their
  • dharmasaMsthApanArthAya = for firmly establishing dharma
  • sambhavAmi = I am born
  • yuge yuge = in every age

Whenever there is decay of righteousness, O Bharata, and there is exaltation of unrighteousness, then I Myself come forth;

For the protection of the good, for the destruction of evil-doers, for the sake of firmly establishing righteousness, I am born from in every age.

 

Yogi Ramsuratkumar’s voice – Shloka #10 – Vaasaamsi jeernaani

वासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २.२२ ॥

Yogi27 - copy

Here is a shloka that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite from Bhagavad Gita. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/file/d/0B21vUhfJ2SEvU0dmZ3lEUzZHaEE/view?usp=sharing

पदच्छेदः

वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृण्हाति, नरः, अपराणि, तथा, शरीराणि, विहाय, जीर्णानि, अन्यानि, संयाति, नवानि, देही

अन्वयः

यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृण्हाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।

आकाङ्क्षः

  • संयाति
    • कः संयाति ? देही
    • कानि संयाति ? अन्यानि
      • कीदृशानि अन्यानि ? नवानि
    • किं कृत्वा संयाति ? विहाय
      • किं विहाय ? शरीराणि
        • कीदृशानि शरीराणि ? जीर्णानि
      • कथं संयाति ? यथा गृण्हाति तथा
        • कः गृण्हाति ? नरः
        • कानि गृण्हाति ? अपराणि
          • कीदृशानि अपराणि ? नवानि
        • किं कृत्वा गृण्हाति ? विहाय
          • किं विहाय ? वासांसि
            • कीदृशानि वासांसि ? जीर्णानि

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = गृण्हाति
      • क्रियाविशेषणम् = यथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = वासांसि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अपराणि
      • कर्तृपदम् = नरः
    • “तथा” वाक्यांश:
      • क्रियापदम् = संयाति
      • क्रियाविशेषणम् = तथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = शरीराणि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अन्यानि
      • कर्तृपदम् = देही

vāsāṃsi jīrṇāni yathā vihāya navāni gṛṇhāti naro’parāṇi ।
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ॥ 2.22 ॥

  • vAsAMsi = Clothes
  • jIrNAni = worn out
  • yathA = in whichever way
  • vihAya = giving up
  • navAni = new ones
  • gRRiNhAti = takes hold of
  • narah = Man
  • aparANi = different ones
  • tathA = in that way
  • sharIrANi = bodies
  • vihAya = giving up
  • jIrNAni = worn out
  • anyAni = different ones
  • saMyAti = takes
  • navAni = new ones
  • dehI = that which has a body, i.e., the soul

Just as a person throws away the old worn out clothes and takes on new clothes, the soul also discards the worn out bodies and takes on new bodies.

Yogi Ramsuratkumar’s voice – Shloka #8 – Adhamaa dhanamicchanti

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः |
उत्तमा मानमिच्छन्ति मानो हि परमं धनम् ||

Yogi17Here is a shloka that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite from the collection of Subhashitas. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/open?id=0B_LMgoFM5B7JWnBZNlBzSC1VLXBmaTBhMi1uVjJ4WHd5dHNV

पदच्छेद:
अधमाः धनम् इच्छन्ति धनम् मानम् च मध्यमाः उत्तमाः मानम् इच्छन्ति मानः हि परमम् धनम्

अन्वय:
अधमाः धनम् इच्छन्ति । मध्यमाः धनं मानं च इच्छन्ति । उत्तमाः मानम् इच्छन्ति ।

मानः हि परमं धनम् ।

आकाङ्क्षः

  • इच्छन्ति
    • के इच्छन्ति ? अधमाः
    • किम् इच्छन्ति ? धनम्
  • इच्छन्ति
    • के इच्छन्ति ? मध्यमाः
    • किम् इच्छन्ति ? धनम्
    • पुनः किम् इच्छन्ति ? मानं च
  • इच्छन्ति
    • के इच्छन्ति ? उत्तमाः
    • किम् इच्छन्ति ? मानम्
  • अस्ति
    • किं अस्ति ? मानः हि
    • कथंभूतम् अस्ति ? धनम्
      • कीदृशं धनम् ? परमम्

adhamā dhanamicchanti dhanaṃ mānaṃ ca madhyamāḥ |
uttamā mānamicchanti māno hi paramaṃ dhanam ||

  • adhamAH = The inferior people
  • dhanaM = Wealth, Money, Material possessions
  • ichChanti = they wish, they desire
  • mAnaM = Respect, prestige
  • cha = and
  • madhyamAH = Middle level people
  • uttamAH = Great men
  • mAnah = Respect, prestige
  • hi = verily, definitely, only
  • paramaM = supreme, highest

The inferior people wish for wealth. The middle level of people wish for material possession and respect. Great men want respect (and not money). The highest wealth is only prestige.

Yogi Ramsuratkumar’s voice – Shloka #7 – Ajeerane bheshajam vaari

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् भोजने अमृतं वारि भोजनान्ते विषप्रदम् ।।

yogi_eating

Here is a shloka that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite from Chanakya Neeti. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/open?id=0B21vUhfJ2SEvWFFIbkN4c1d5enM

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam ।
bhojane amṛtaṃ vāri bhojanānte viṣapradam ।।

  • ajIrNe = When there is indigestion
  • bheShajaM = medicine
  • vAri = Water
  • jIrNe = When the food is digested
  • vAri = Water
  • balapradam = Giver of strength
  • bhojane = While taking food
  • amRRitaM = Nectar
  • vAri = Water
  • bhojanAnte = After taking food
  • viShapradam = Poisonous

Water is a medicine during indigestion. Water is nourishing when the food is digested. Water is nectar while consuming food. Water is poisonous when taken immediately after food.

पदच्छेद:
अजीर्णे भेषजम् वारि जीर्णे वारि बलप्रदम् भोजने अमृतम् वारि भोजनान्ते विषप्रदम्

अन्वय:
अजीर्णे वारि भेषजम् । जीर्णे वारि बलप्रदम् । भोजने वारि अमृतम् । भोजनान्ते वारि विषप्रदम् ।

आकाङ्क्षः

  • अस्ति
    • किम् अस्ति ? वारि
    • कथंभूतम् अस्ति ? भेषजम्
    • कदा ? अजीर्णे
  • अस्ति
    • किम् अस्ति ? वारि
    • कथंभूतम् अस्ति ? बलप्रदम्
    • कदा ? जीर्णे
  • अस्ति
    • किम् अस्ति ? वारि
    • कथंभूतम् अस्ति ? अमृतम्
    • कदा ? भोजने
  • अस्ति
    • किम् अस्ति ? वारि
    • कथंभूतम् अस्ति ? विषप्रदम्
    • कदा ? भोजनान्ते

पदपरिचयः

  • प्रथमवाक्यम्
  • क्रियापदम् = (अस्ति)
  • कर्तृपदम् = वारि
  • कर्तृविशेषणम् = भेषजम्
  • कालवाचकपदम् = अजीर्णे
  • द्वितीयवाक्यम्
  • क्रियापदम् = (अस्ति)
  • कर्तृपदम् = वारि
  • कर्तृविशेषणम् = बलप्रदम्
  • कालवाचकपदम् = जीर्णे
  • तृतीयवाक्यम्
  • क्रियापदम् = (अस्ति)
  • कर्तृपदम् = वारि
  • कर्तृविशेषणम् = अमृतम्
  • कालवाचकपदम् = भोजने
  • चथुर्तयवाक्यम्
  • क्रियापदम् = (अस्ति)
  • कर्तृपदम् = वारि
  • कर्तृविशेषणम् = विषप्रदम्
  • कालवाचकपदम् = भोजनान्ते